अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 5
सूक्त - चातनः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यातुधाननाशन सूक्त
पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः। त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥
स्वर सहित पद पाठपश्या॑म । ते॒ । वी॒र्यम् । जा॒त॒वे॒द॒: । प्र । न॒: । ब्रू॒हि॒ । या॒तु॒धाना॑न् । नृ॒च॒क्ष॒:। त्वया॑ । सर्वे॑ । परि॑तप्ता: । पु॒रस्ता॑त् । ते । आ । य॒न्तु॒ । प्र॒ब्रु॒वा॒णा: । उप॑ । इ॒दम् ॥
स्वर रहित मन्त्र
पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान्नृचक्षः। त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥
स्वर रहित पद पाठपश्याम । ते । वीर्यम् । जातवेद: । प्र । न: । ब्रूहि । यातुधानान् । नृचक्ष:। त्वया । सर्वे । परितप्ता: । पुरस्तात् । ते । आ । यन्तु । प्रब्रुवाणा: । उप । इदम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 7; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−पश्याम। दृशिर् प्रेक्षणे-लोट्। पाघ्राध्मास्था०। पा० ७।३।७८। इति शपि पश्यादेशः। अवलोकयाम। वीर्यम्। वीरस्य भावः, वीर-यत्। यद्वा, वीरे साधुः। तत्र साधुः। पा० ४।४।९८। इति यत्। तित् स्वरितम्। पा० ६।१।१८५। इति स्वरितः। पराक्रमम्, सामर्थ्यम्। जात-वेदः। मं० २। हे जातप्रज्ञान। नः। अकथितं च। पा० १।४।५१। इति। कर्मत्वम्। अस्मान् प्रति। प्र+ब्रूहि। ब्रूञ् व्यक्तायां वाचि लोट्, द्विकर्मकः। प्रकथय। यातुधानान्। मं० १। पीडाप्रदान् राक्षसान्। नृचक्षः। चष्टिः पश्यतिकर्मा। निघं० ३।११। चक्षिङ् व्यक्तायां वाचि-असुन्, नॄन् मनुष्यान् चष्टे पश्यतीति नृचक्षाः। हे मनुष्याणां द्रष्टः, अथवा उपदेशक। त्वया। अग्निना, अग्निवत् तेजस्विना। परि-तप्ताः। सम्यग् दग्धाः। पुरस्तात्। अग्ने। ते। प्रसिद्धाः। आ+यन्तु। आगच्छन्तु प्र-ब्रुवाणाः। ब्रूञ्-शानच्। प्रकथयन्तः, जयं प्रलपन्तः। इदम्। दृश्यमानं स्थानम् ॥
इस भाष्य को एडिट करें