अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 2
आज्य॑स्य परमेष्ठि॒ञ्जात॑वेद॒स्तनू॑वशिन्। अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न्वि ला॑पय ॥
स्वर सहित पद पाठआज्य॑स्य । प॒र॒मे॒स्थि॒न् । जात॑वेद: । तनू॑वशिन् । अग्ने॑ । तौ॒लस्य॑ । म । अ॒शा॒न॒ । या॒तु॒धाना॑न् । वि । ला॒प॒य॒ ॥
स्वर रहित मन्त्र
आज्यस्य परमेष्ठिञ्जातवेदस्तनूवशिन्। अग्ने तौलस्य प्राशान यातुधानान्वि लापय ॥
स्वर रहित पद पाठआज्यस्य । परमेस्थिन् । जातवेद: । तनूवशिन् । अग्ने । तौलस्य । म । अशान । यातुधानान् । वि । लापय ॥
अथर्ववेद - काण्ड » 1; सूक्त » 7; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−आज्यस्य। आङ्+अञ्ज मिश्रणे गतौ-क्यप्, न लोपः। कर्मणि षष्ठी, आ अज्यते शरीरेण। आज्यं, घृतम्। परमे-स्थिन्। परमे कित्। उ० ४।१०। इति परमे+ष्ठा गतिनिवृत्तौ−इनि, स च कित्। हलन्तात् सप्तम्याः संज्ञायाम्। पा० ६।३।९। इत्यलुक्। स्थास्थिन्स्पृणाम्। वा० पा० ८।३।९७। इति षत्वम्। परमे उत्तमे पदे तिष्ठतीति परमेष्ठी। हे उच्चपदस्थ राजन्। जात-वेदः। गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। इति जात+विद ज्ञाने, वा विद्लृ लाभे-असुन्। जातं प्रादुर्भूतं वेदो ज्ञानं धनं वा यस्मात् स जातवेदाः। जातवेदाः कस्माज् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो वा−इति निरु० ७।१९। हे जातधन, हे जातप्रज्ञान। तनू−वशिन्। वशोऽस्त्यस्य−इनि। हे तनूनां अस्माकं शरीराणां वशयितः। अग्ने। मं० १। हे अग्निवत् तेजस्विन्। तौलस्य। तुल उन्माने−घञ्। तोल्यते उन्मीयते स्रुवादिना इति तोलम्। तोल-अण्। कर्मणि षष्ठी। तौलम्। तोलेन परिमाणेन कृतम्। प्र+अशान। अश भोजने-लोट्। हलः श्नः शानज् झौ। पा० ३।१।८३। इति श्नाप्रत्ययस्य शानच्। हौ परतः। अतो हेः। पा० ६।४।१०५। इति हेर्लुक्। त्वं भोजनं कुरु। भक्षय। यातु-धानान्। मं० १। पीडाप्रदान् राक्षसान्। वि+लापय। हेतुमति च। पा० ३।१।२६। इति वि विकृतम्। लप भाषे-णिच्-लोट्। विलापेन दुःखवचनेन युक्तान् कुरु ॥
इस भाष्य को एडिट करें