Loading...
अथर्ववेद > काण्ड 15 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 10
    सूक्त - अध्यात्म अथवा व्रात्य देवता - प्राजापत्या त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॑ देवज॒नाःप॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥

    स्वर सहित पद पाठ

    तस्य॑ । दे॒व॒ऽज॒ना: । प॒रि॒ऽस्क॒न्दा: । आस॑न् । स॒म्ऽक॒ल्पा: । प्र॒ऽहा॒य्या᳡: । विश्वा॑नि । भू॒तानि॑ । उ॒प॒ऽसद॑: ॥३.१०॥


    स्वर रहित मन्त्र

    तस्य देवजनाःपरिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥

    स्वर रहित पद पाठ

    तस्य । देवऽजना: । परिऽस्कन्दा: । आसन् । सम्ऽकल्पा: । प्रऽहाय्या: । विश्वानि । भूतानि । उपऽसद: ॥३.१०॥

    अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 10

    टिप्पणीः - १०−(तस्य) व्रात्यस्य (देवजनाः) विद्वांसः पुरुषाः (परिष्कन्दाः)परि+स्कन्दिर् गतिशोषणयोः-घञ्। परपुष्टः। परिचराः (आसन्) (संकल्पाः) दृढविचाराः (प्रहाय्याः) श्रदुक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६। ओहाङ्-गतौ-आय्य।प्रगन्तारः। दूताः (विश्वानि) सर्वाणि (भूतानि) सत्त्वानि। सत्तासमन्वितानिपदार्थजातानि (उपसदः) समीपवर्तिनः ॥

    इस भाष्य को एडिट करें
    Top