अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा प्राजापत्या जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
शा॑र॒दावे॑नं॒मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठशा॒र॒दौ। ए॒न॒म् । मासौ॑ । उदी॑च्या: । दि॒श: । गो॒पा॒य॒त॒: । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१२॥
स्वर रहित मन्त्र
शारदावेनंमासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद॥
स्वर रहित पद पाठशारदौ। एनम् । मासौ । उदीच्या: । दिश: । गोपायत: । श्यैतम् । च । नौधसम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११, १२−(शारदौ) शरत्सम्बन्धिनावाश्विनकार्त्तिकौ (श्यैतम्) सू० २।२२। श्येत-अण्। श्येतस्य सद्गतेःप्रतिपादकं वेदज्ञानम् (नौधसम्) सू० २।२२। नोधस्-अण्। नोधसाम् ऋषीणां हितकरंमोक्षज्ञानम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें