अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वार्षि॑कौ॒ मासौ॑गो॒प्तारा॒वकु॑र्वन्वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ ॥
स्वर सहित पद पाठवार्षि॑कौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । वै॒रू॒पम् । च॒ । वै॒रा॒ज॒म् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.८॥
स्वर रहित मन्त्र
वार्षिकौ मासौगोप्तारावकुर्वन्वैरूपं च वैराजं चानुष्ठातारौ ॥
स्वर रहित पद पाठवार्षिकौ । मासौ । गोप्तारौ । अकुर्वन् । वैरूपम् । च । वैराजम् । च । अनुऽस्थातारौ ॥४.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८, ९−(वार्षिकौ)वर्षा-ठञ्। वर्षासम्बन्धिनौ श्रावणभाद्रौ (वैरूपम्) सू० २।१६। पदार्थानां रूपंनिरूपणं यस्मात् तद् वेदज्ञानम् (वैराजम्) सू० २।१६। विराड्रूपस्य ऐश्वर्यवतःप्रकाशमानस्य वा परमात्मस्वरूपस्य प्रतिपादकं मोक्षज्ञानम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें