अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 7
सूक्त - प्रजापति
देवता - निचृत विराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
यो॒प्स्वग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ॥
स्वर सहित पद पाठय: । अ॒प्ऽसु । अ॒ग्नि: । अति॑ । तम् । सृ॒जा॒मि॒ । म्रो॒कम् । ख॒निम् । त॒नू॒ऽदूषि॑म् ॥१.७॥
स्वर रहित मन्त्र
योप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥
स्वर रहित पद पाठय: । अप्ऽसु । अग्नि: । अति । तम् । सृजामि । म्रोकम् । खनिम् । तनूऽदूषिम् ॥१.७॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यः) दोषः (अप्सु) म० १।प्रजासु (अग्निः) अग्निवत्सन्तापकः (अति सृजामि) म० ४ विनाशयामि (तम्) दोषम् (म्रोकम्) म० ३। हिंसकम् (खनिम्) विदारकम्। पीडकम् (तनूदूषिम्) शरीरदूषकम् ॥
इस भाष्य को एडिट करें