अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 13
सूक्त - प्रजापति
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त दे॒वीः ॥
स्वर सहित पद पाठशि॒वान् । अ॒ग्नीन् । अ॒प्सु॒ऽसद॑: । ह॒वा॒म॒हे॒ । मयि॑ । क्ष॒त्रम् । वर्च॑: । आ । ध॒त्त॒ । दे॒वी॒: ॥१.१३॥
स्वर रहित मन्त्र
शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥
स्वर रहित पद पाठशिवान् । अग्नीन् । अप्सुऽसद: । हवामहे । मयि । क्षत्रम् । वर्च: । आ । धत्त । देवी: ॥१.१३॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(शिवान्) मङ्गलप्रदान् (अग्नीन्) अग्नयः=ज्ञानवन्तः-दयानन्दभाष्ये, यजु०५।३४। ज्ञानिनः पुरुषान् (अप्सुषदः) म० १। प्रजासु सदनशीलान् (हवामहे) आह्वयामः (मयि) पराक्रमिणि पुरुषे (क्षत्रम्) राज्यम् (वर्चः) तेजः (आ) आगत्य (धत्त)धारयत (देवीः) हे देव्यः प्रजाः ॥
इस भाष्य को एडिट करें