Loading...
अथर्ववेद > काण्ड 16 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 11
    सूक्त - उषा,दुःस्वप्ननासन देवता - त्रिपदा यवमध्या गायत्री, आर्ची अनुष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    तद॒मुष्मा॑ अग्नेदे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ॥

    स्वर सहित पद पाठ

    तत् । अ॒मुष्मै॑ । अ॒ग्ने॒ । दे॒वा: । परा॑ । व॒ह॒न्तु॒ । वध्रि॑:। यथा॑ । अस॑त् । विथु॑र: । न । सा॒धु: ॥६.११॥


    स्वर रहित मन्त्र

    तदमुष्मा अग्नेदेवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥

    स्वर रहित पद पाठ

    तत् । अमुष्मै । अग्ने । देवा: । परा । वहन्तु । वध्रि:। यथा । असत् । विथुर: । न । साधु: ॥६.११॥

    अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 11

    टिप्पणीः - ११−(तत्)पूर्वोक्तं दुःखम् (अमुष्मै) तस्मै कुपथ्यसेविने (अग्ने) हे ज्ञानस्वरूपपरमेश्वर (देवाः) दिव्यनियमाः (परा वहन्तु) प्रापयन्तु (वध्रिः) निर्वीर्यः (यथा) येन प्रकारेण (असत्) भूयात् (विथुरः) व्यथेः सम्प्रसारणं धः किच्च। उ०१।३९। व्यथ भयसंचलनयोः-उरच्, कित्। व्याकुलः (न साधुः) असाधुः। दुष्टजनः ॥

    इस भाष्य को एडिट करें
    Top