अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 1
तेनै॑नंविध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥
स्वर सहित पद पाठतेन॑ । ए॒न॒म् । वि॒ध्या॒मि॒ । अभू॑त्या । ए॒न॒म् । वि॒ध्या॒मि॒ । नि:ऽभू॑त्या । ए॒न॒म् । वि॒ध्या॒मि॒ । परा॑ऽभूत्या । ए॒न॒म् । वि॒ध्या॒मि॒ । ग्राह्या॑ । ए॒न॒म् । वि॒ध्या॒मि॒ । तम॑सा । ए॒न॒म् । वि॒ध्या॒मि॒ ॥७.१॥
स्वर रहित मन्त्र
तेनैनंविध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामिग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥
स्वर रहित पद पाठतेन । एनम् । विध्यामि । अभूत्या । एनम् । विध्यामि । नि:ऽभूत्या । एनम् । विध्यामि । पराऽभूत्या । एनम् । विध्यामि । ग्राह्या । एनम् । विध्यामि । तमसा । एनम् । विध्यामि ॥७.१॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(तेन) ईश्वरनियमेन (एनम्)कुमार्गिणम् (विध्यामि) विदारयामि। पीडयामि (अभूत्या) असम्पत्त्या (निर्भूत्या)हान्या (पराभूत्या) पराजित्या। पराभवेन (ग्राह्या) सन्धीनां रोगविशेषेण (तमसा)अन्धकारेण। महाक्लेशेन। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें