अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 1
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे। अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥
स्वर सहित पद पाठप्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ ॥ अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दु॒:ऽधर॑म् । राध॑: । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥१५.१॥
स्वर रहित मन्त्र
प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे। अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥
स्वर रहित पद पाठप्र । मंहिष्ठाय । बृहते । बृहत्ऽरये । सत्यऽशुष्माय । तवसे । मतिम् । भरे ॥ अपाम्ऽइव । प्रवणे । यस्य । दु:ऽधरम् । राध: । विश्वऽआयु । शवसे । अपऽवृतम् ॥१५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह सूक्त ऋग्वेद में है-१।७।१-६ ॥ १−(प्र) प्रकर्षेण (मंहिष्ठाय) मंहतिर्दानकर्मा-निघ० ३।२०। महि वृद्धौ दाने च-तृच्, मंहितृ-इष्ठन्, तृलोपः। दातृतमाय (बृहते) गुणैर्महते (बृहद्रये) रैशब्दस्य ऐकारस्य एकारः। प्रभूतधनाय (सत्यशुष्माय) अवितथबलाय (तवसे) अ० ४।२२।३। बलप्राप्तये (मतिम्) बुद्धिम् (भरे) अहं धरे (अपाम्) जलानां प्रवाहः (इव) यथा (प्रवणे) अवनतदेशे (यस्य) सभाध्यक्षस्य (दुर्धरम्) दुःखेन धरणीयं निवारणीयम् (राधः) धनम् (विश्वायु) विश्वस्मै सर्वस्मै आयुर्जीवनं यस्मात् तत् (शवसे) बललाभाय (अपावृतम्) छान्दसो दीर्घः। अपगतावरणं व्यावृतं वर्तते ॥
इस भाष्य को एडिट करें