Loading...
अथर्ववेद > काण्ड 20 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 3
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१५

    अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे। यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥

    स्वर सहित पद पाठ

    अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उष॑: । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे ॥ यस्य॑ । धाम॑ । अव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योति॑: । अका॑रि । ह॒रित॑: । न । अय॑से ॥१५.३॥


    स्वर रहित मन्त्र

    अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे। यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥

    स्वर रहित पद पाठ

    अस्मै । भीमाय । नमसा । सम् । अध्वरे । उष: । न । शुभ्रे । आ । भर । पनीयसे ॥ यस्य । धाम । अवसे । नाम । इन्द्रियम् । ज्योति: । अकारि । हरित: । न । अयसे ॥१५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 3

    टिप्पणीः - ३−(अस्मै) प्रसिद्धाय (भीमाय) भयङ्कराय (नमसा) सत्कारेण (सम्) सम्यक् (अध्वरे) हिंसारहिते कर्मणि (उषः) पादादित्वाद् निघाताभावः। हे प्रभातवेले (न) सम्प्रति-निरु० ७।३१ (शुभ्रे) स्फायितञ्चि०”। उ० २।१३। शुभ दीप्तौ-रक् टाप्। हे दीप्यमाने (आ) समन्तात् (भर) धृतः पूरितो भव (पनीयसे) पन व्यवहारे स्तुतौ च-तृच्, ईयसुन्, तृलोपः। अत्यन्तव्यवहारकुशलाय सभाध्यक्षाय (यस्य) सभाध्यक्षस्य (धाम) न्यायालयादिस्थानम् (श्रवसे) अन्नलाभाय (नाम) यशः (इन्द्रियम्) इन्द्रियं धननाम-निघ० २।१०। इन्द्रलिङ्गम्। ऐश्वर्यम् (ज्योतिः) प्रतापः (अकारि) कृतम् (हरितः) हरितो दिङ्नाम-निघ० १।९। दिशः (न) इव (अयसे) अय गतौ-असुन्। गमनाय ॥

    इस भाष्य को एडिट करें
    Top