अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 2
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः। यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥
स्वर सहित पद पाठअध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आप॑: । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑त: ॥ यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒त: । इन्द्र॑स्य । वज्र॑: । श्नथि॑ता । हि॒र॒ण्यय॑: ॥१५.२॥
स्वर रहित मन्त्र
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः। यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥
स्वर रहित पद पाठअध । ते । विश्वम् । अनु । ह । असत् । इष्टये । आप: । निम्नाऽइव । सवना । हविष्मत: ॥ यत् । पर्वते । न । सम्ऽअशीत । हर्यत: । इन्द्रस्य । वज्र: । श्नथिता । हिरण्यय: ॥१५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अध) अथ। अनन्तरम् (विश्वम्) सर्वं जगत् (अनु) अनुसृत्य (ह) निश्चयेन (असत्) भवेत् (इष्टये) अभीष्टसिद्धये (आपः) जलानि (निम्ना) निम्नानि स्थलानि अनुसृत्य (इव) यथा (सवना) ऐश्वर्याणि (हविष्मतः) हवींषि दानयोग्यानि वस्तूनि यस्य (यत्) यदा (पर्वते) शैले (न) यथा (समशीत) शीङ् स्वप्ने-लङ्। गुणाभावः। अशेत। सम्यग् वर्तमानोऽभूत् (हर्यतः) कर्मनीयः (इन्द्रस्य) परमैश्वर्यवतः सभाध्यक्षस्य (वज्रः) आयुधसमूहः (श्नथिता) श्नथ हिंसायाम्-तृन्, नित्वादाद्युदात्तः। हिंसिता। संपेष्टा (हिरण्ययः) तेजोमयः ॥
इस भाष्य को एडिट करें