अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 5
भूरि॑ त इन्द्र वी॒र्य तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण। अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
स्वर सहित पद पाठभूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य॒ । स्तो॒तु: । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ॥ अनु॑ । ते॒ । द्यौ: । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । मे॒मे॒ । ओज॑से ॥१५.५॥
स्वर रहित मन्त्र
भूरि त इन्द्र वीर्य तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण। अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
स्वर रहित पद पाठभूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतु: । मघऽवन् । कामम् । आ । पृण ॥ अनु । ते । द्यौ: । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । मेमे । ओजसे ॥१५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(भूरि) बहु (ते) तव (इन्द्र) हे प्रतापिन् राजन् (वीर्यम्) पराक्रमः (ते) तव (स्मसि) वयं प्रजाः स्मः (अस्य) (स्तोतुः) गुणप्रकाशकस्य (मघवन्) हे बहुधन (कामम्) अभिलाषम् (पृण) पृण प्रीणने। तर्पय (अनु) अनुसृत्य (ते) तव (द्यौः) आकाशः (बृहती) महती (वीर्यम्) पराक्रमम् (ममे) माङ् माने शब्दे च-लिट्। परिमिता बभूव (इयम्) दृश्यमाना (च) (ते) तव (पृथिवी) भूमिः (नेमे) णम प्रह्वत्वे-लिट्। प्रह्वी नम्रा बभूव (ओजसे) बलाय ॥
इस भाष्य को एडिट करें