अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 4
ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ॥
स्वर सहित पद पाठए॒भि: । द्युऽभि॑: । सु॒ऽमना॑ । ए॒भि: । इन्दु॑ऽभि: । नि॒ऽरु॒न्धा॒न: । अम॑तिम् । गोभि॑: । अ॒श्विना॑ ॥ इन्द्रे॑ण । दस्यु॑म् । दु॒रय॑न्त: । इन्दु॑ऽभि: । यु॒तऽद्वे॑षस: । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥२१.४॥
स्वर रहित मन्त्र
एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना। इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥
स्वर रहित पद पाठएभि: । द्युऽभि: । सुऽमना । एभि: । इन्दुऽभि: । निऽरुन्धान: । अमतिम् । गोभि: । अश्विना ॥ इन्द्रेण । दस्युम् । दुरयन्त: । इन्दुऽभि: । युतऽद्वेषस: । सम् । इषा । रभेमहि ॥२१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(एभिः) प्रत्यक्षैः (द्युभिः) तेजोभिः (सुमनाः) प्रसन्नचित्तः (एभिः) (इन्दुभिः) ऐश्वर्यैः (निरुन्धानः) रुधिर् आवरणे-शानच्। निवर्तयन् (अमतिम्) पीडकम्। दारिद्र्यम् (गोभिः) धेनुभिः (अश्विना) अश्व-इनि। सुपां सुलुक्०। पा० ७।१।३९। तृतीयाबहुवचनस्य आकारः। अश्वो मार्गव्याप्तिर्यस्यास्तीति अश्वी, यद्वा स्वार्थे इनिः। अश्वैः। तुरङ्गैः (इन्द्रेण) परमैश्वर्यवता राज्ञा (दस्युम्) बलात्कारेण परस्वहर्तारम् (दरयन्तः) विदारयन्तः। नाशयन्तः (इन्दुभिः) ऐश्वर्यैर्द्वारा (युतद्वेषसः) यु मिश्रणामिश्रणयोः-क्त। युतानि पृथग्भूतानि द्वेषांसि शत्रुकर्माणि येषां ते (इषा) अन्नेन (सं रभेमहि) संरब्धाः संगता भवेम ॥
इस भाष्य को एडिट करें