अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 6
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॑ ते॒ सोमा॑सो वृत्र॒हत्ये॑षु सत्पते। यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
स्वर सहित पद पाठते । त्वा॒ । मदा॑: । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑स: । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ ॥ यत् ।का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हय॑: ॥२१.६॥
स्वर रहित मन्त्र
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते। यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
स्वर रहित पद पाठते । त्वा । मदा: । अमदन् । तानि । वृष्ण्या । ते । सोमास: । वृत्रऽहत्येषु । सत्ऽपते ॥ यत् ।कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हय: ॥२१.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(ते) प्रसिद्धाः (त्वा) त्वाम् (मदाः) आनन्दयितारः शूराः (अमदन्) हर्षितवन्तः (तानि) प्रसिद्धानि (वृष्ण्या) वृषन्-यत्। शेर्लोपः। वृष्णः इन्द्रस्य वीरस्य योग्यानि कर्माणि (ते) प्रसिद्धाः (सोमासः) ऐश्वर्याणि (वृत्रहत्येषु) वृत्राणां शत्रूणां हत्या हननं येषु तेषु संग्रामेषु (सत्पते) हे सत्पुरुषाणां रक्षक (यत्) यदा (कारवे) कृवापा०। उ० १।१। करोतेः-उण्। कर्मकर्त्रे (दश सहस्राणि) असंख्यातानि (वृत्राणि) शत्रुसैन्यानि (अप्रति) अ० २०।१२।३। यथा तथा, प्रातिकूल्यस्य विघ्नस्य राहित्येन (बर्हिष्मते) विज्ञानवते (नि बर्हयः) बर्ह प्राधान्ये हिंसादिषु च-लङ्, अडभावश्छान्दसः। निबर्हयतिर्बलकर्मा-निघ० २।१९। नितरामवधीः ॥
इस भाष्य को एडिट करें