अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 3
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑। अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
स्वर सहित पद पाठशची॑ऽव: । इ॒न्द्र॒: । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् । अ॒भित॑: । चे॒कि॒ते॒ । वसु॑ ॥ स॒म्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒ऽय॒त: । ज॒रि॒तु: । काम॑म् । ऊ॒न॒यी॒: ॥२१.३॥
स्वर रहित मन्त्र
शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु। अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥
स्वर रहित पद पाठशचीऽव: । इन्द्र: । पुरुऽकृत् । द्युमत्ऽतम । तव । इत् । इदम् । अभित: । चेकिते । वसु ॥ सम्ऽगृभ्य । अभिऽभूते । आ । भर । मा । त्वाऽयत: । जरितु: । कामम् । ऊनयी: ॥२१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(शचीवः) शची-मतुप्। छन्दसीरः। पा० ८।२।१। मतुपो मस्य वः। मतुवसो रु सम्बुद्धौ छन्दसि। पा० ८।३।१। इति रुत्वम्। शची कर्मनाम-निघ० २।१। प्रज्ञानाम-निघ० ३।२। हे प्रशस्तप्रज्ञावन् (इन्द्र) परमैश्वर्यवन् राजन् (पुरुकृत्) पुरूणां बहूनां कर्मणां कर्तः (द्युमत्तम) अतिशयेन प्रकाशयुक्त (तव) (इदम्) उपस्थितम् (अभि) सर्वतः (चेकिते) कित ज्ञाने-लिट्। ज्ञातं वर्तत (वसु) धनम्) (अतः) अस्मात् कारणात् (संगृभ्य) संगृह्य (अभिभूते) हे अभिभवितः विजयिन् (आ) आनीय (भर) धर (मा) निषेधे (त्वायतः) त्वां कामयमानस्य (जरितुः) स्तोतुः (कामम्) अभिलाषम् (ऊनयीः) ऊन परिहाणे-लुङ्। ऊनयेः ॥
इस भाष्य को एडिट करें