अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 10
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
स्वर सहित पद पाठत्वम् । आ॒वि॒थ॒ । सु॒ऽअव॑सम् । तव॑ । ऊ॒तिऽभि॑: । तव॑ । त्राम॑भि: । इ॒न्द्र॒ । तूर्व॑याणम् ॥ त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒य॒: ॥२१.१०॥
स्वर रहित मन्त्र
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्। त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
स्वर रहित पद पाठत्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(त्वम्) (आविथ) ररक्षिथ (सुश्रवसम्) बहुकीर्तिमन्तं युद्धपण्डितम् (तव) स्वकीयाभिः (ऊतिभिः) रक्षाभिः (तव) स्वकीयैः (त्रामभिः) त्रैङ् पालने-मनिन्। पालनसाधनैः (इन्द्र) हे परमैश्वर्यवन् सेनापते (तूर्वयाणम्) तुर्वी हिंसायाम्-अच्+या गतौ-ल्युट्। तूर्वाणां शत्रुहिंसकानां शूराणां यानं गमनं यस्मात् तं वीरम् (त्वम्) (अस्मै) युध्यमानाय (कुत्सम्) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। सस्य तः। संगतिशीलम् ऋषिम् (अतिथिग्वम्) म० ८। अतिथीनां विदुषां प्रापकम् (आयुम्) छन्दसीणः। उ० १।२। इण् गतौ-उण्। आयवो मनुष्यनाम-निघ० २।३। गतिशीलं मनुष्यम् (महे) पूजनीयाय (राज्ञे) प्रधानशासकाय (यूने) निसर्गबलवते (अरन्धनायः) अरन्धन-क्यङ्, लिङि रूपम्। अरमलं धनं यस्य स इवाचरेः ॥
इस भाष्य को एडिट करें