अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 10
यो रा॒यो॒ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑। तस्मा॒ इन्द्रा॑य गायत ॥
स्वर सहित पद पाठय: । रा॒य: । अ॒वनि॑: । म॒हान् । सु॒ऽपा॒र: । सु॒न्व॒त:। सखा॑ ॥ तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥६८.१०॥
स्वर रहित मन्त्र
यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा। तस्मा इन्द्राय गायत ॥
स्वर रहित पद पाठय: । राय: । अवनि: । महान् । सुऽपार: । सुन्वत:। सखा ॥ तस्मै । इन्द्राय । गायत ॥६८.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(यः) परमेश्वरः (रायः) धनस्य (अवनिः) अ० २०।३।१०। रक्षकः। स्वामी (महान्) गुणेन बलेन वाधिकः (सुपारः) पार कर्मसमाप्तौ-पचाद्यच्। सुष्ठु पारयिता (सुन्वतः) तत्त्वरसं निष्पादयतः पुरुषस्य (सखा) प्रियः (तस्मै) (इन्द्राय) परमैश्वर्यवते जगदीश्वराय (गायत) गानं कुरुत ॥
इस भाष्य को एडिट करें