Loading...
अथर्ववेद > काण्ड 20 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 8
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६८

    अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥

    स्वर सहित पद पाठ

    अ॒स्य॒ । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒न: । वृ॒त्राणा॑म् । अ॒भ॒व॒: । प्र ॥ आ॒व॒: । वाजे॑षु । वा॒ज‍िन॑म् ॥६८.८॥


    स्वर रहित मन्त्र

    अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः। प्रावो वाजेषु वाजिनम् ॥

    स्वर रहित पद पाठ

    अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घन: । वृत्राणाम् । अभव: । प्र ॥ आव: । वाजेषु । वाज‍िनम् ॥६८.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 8

    टिप्पणीः - ८−(अस्य) सोमस्य। तत्त्वरसस्य (पीत्वा) पानं कृत्वा (शतक्रतो) हे बहुकर्मन् (घनः) मूर्तौ घनः। पा० ३।३।७७। हन्तेरप् मूर्तिभिन्नार्थेऽपि। हन्ता। धातुकः (वृत्राणाम्) आवरकाणां शत्रूणाम् (अभवः) (प्र) प्रकर्षेण (आवः) रक्षितवानसि (वाजेषु) सङ्ग्रामेषु (वाजिनम्) पराक्रमिणं पुरुषम् ॥

    इस भाष्य को एडिट करें
    Top