अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 7
एमाशुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम्। प॑त॒यन्म॑न्द॒यत्स॑खम् ॥
स्वर सहित पद पाठआ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रि॑य॑म् । नृ॒ऽमाद॑नम् ॥ प॒त॒यत् । म॒न्द॒यत्ऽस॑ख्यम् ॥६८.७॥
स्वर रहित मन्त्र
एमाशुमाशवे भर यज्ञश्रियं नृमादनम्। पतयन्मन्दयत्सखम् ॥
स्वर रहित पद पाठआ । ईम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् ॥ पतयत् । मन्दयत्ऽसख्यम् ॥६८.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(आ) समन्तात् (ईम्) प्राप्तव्यं जलम्-निघ० १।१२। (आशुम्) कृवापा०। उ० १।१। अशूङ् व्याप्तौ-उण्। वेगादिगुणवन्तमग्निवाय्वादिपदार्थसमूहम् (आशवे) वेगादिगुणयुक्तरथादिहिताय (भर) देहि (यज्ञश्रियम्) संगतिकरणेन लक्ष्मीदातारम् (नृमादनम्) नॄणां मनुष्याणां हर्षहेतुम् (पतयत्) तत् करोति तदाचष्टे। वा० पा० ३।१।२६। पति-णिच् ततः शतृ। पतित्वसम्पादकम् (मन्दयत् सखम्) मन्दयन्तः सखायो यस्मिंस्तद्धनम् ॥
इस भाष्य को एडिट करें