अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 9
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑ ॥
स्वर सहित पद पाठतम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑म: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥६८.९॥
स्वर रहित मन्त्र
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो। धनानामिन्द्र सातये ॥
स्वर रहित पद पाठतम् । त्वा । वाजेषु । वाजिनम् । वाजयाम: । शतक्रतो इति शतऽक्रतो ॥ धनानाम् । इन्द्र । सातये ॥६८.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(तम्) तादृशम् (त्वा) त्वाम् (वाजेषु) सङ्ग्रामेषु (वाजिनम्) महाबलवन्तम् (वाजयामः) वज गतौ, चुरादिः। प्राप्नुमः (शतक्रतो) शतेष्वसंख्यातेषु वस्तुषु क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ (धनानाम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (सातये) सेवनाय। लाभाय ॥
इस भाष्य को एडिट करें