Loading...
अथर्ववेद > काण्ड 20 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 6
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६८

    उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑। स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥

    स्वर सहित पद पाठ

    उ॒त । न॒: । सु॒ऽभगा॑न् । अ॒रि: । वो॒चेयु॑: । द॒स्म॒ । कृ॒ष्टय॑: ॥ स्याम॑: । इत् । इन्द्र॑स्य । शर्म॑णि ॥६८.६॥


    स्वर रहित मन्त्र

    उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः। स्यामेदिन्द्रस्य शर्मणि ॥

    स्वर रहित पद पाठ

    उत । न: । सुऽभगान् । अरि: । वोचेयु: । दस्म । कृष्टय: ॥ स्याम: । इत् । इन्द्रस्य । शर्मणि ॥६८.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 6

    टिप्पणीः - ६−(उत) अपि च (नः) अस्मान् (सुभगान्) बह्वैश्वर्योपेतान् (अरिः) अच इः। उ० ४।१३९। ऋ गतिप्रापणयोः-इप्रत्ययः। बहुवचनस्यैकवचनम्। अरयः प्रेरकाः। नायकाः। शत्रवः (वोचेयुः) वच परिभाषणे-आशीर्लिङ् प्रथमस्य बहुवचने। लिङ्याशिष्यङ्। पा० ३।१।८६। इति विकरणस्थान्यङ् प्रत्ययः। वच उम्। पा० ७।४।२०। उमागमः। उच्यासुः। उपदिश्यासुः (दस्म) अ० २०।१७।२। हे दर्शनीय (कृष्टयः) अ० ३।२४।३। मनुष्याः (स्याम) भवेम (इत्) एव (इन्द्रस्य) परमेश्वरस्य (शर्मणि) सुखे। शरणे ॥

    इस भाष्य को एडिट करें
    Top