अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 2
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व। तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥
स्वर सहित पद पाठयदि॑ । क्षि॒तऽआ॑यु: । यदि॑ । वा॒ । परा॑ऽइत: । यदि॑ । मृ॒त्यो: । अ॒न्ति॒कम् । निऽइ॑त: । ए॒व । तम् । आ । ह॒रा॒मि॒ । नि:ऽऋ॑ते: । उ॒पस्था॑त् । अस्पा॑र्शम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥११.२॥
स्वर रहित मन्त्र
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव। तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥
स्वर रहित पद पाठयदि । क्षितऽआयु: । यदि । वा । पराऽइत: । यदि । मृत्यो: । अन्तिकम् । निऽइत: । एव । तम् । आ । हरामि । नि:ऽऋते: । उपस्थात् । अस्पार्शम् । एनम् । शतऽशारदाय ॥११.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यदि)। चेत्। (क्षितायुः)। क्षीणजीवनः। (यदि वा)। अथवा। (परेतः)। परा भङ्गे+इण् गतौ-क्त। भङ्गं प्राप्तः। (मृत्योः)। मरणस्य, (अन्तिकम्)। अन्त-मत्वर्थीयो ठन्, तस्य इकः। निकटम्। (नीतः)। नि+इतः। नीचैर्गतः। (एव)। अवश्यम्। (तम्)। रोगिणम्। (आ हरामि)। आ नयामि। (निर्ऋतेः)। अ० २।१०।१। निर्ऋतिः=कृच्छ्रापत्तिः-निरु० २।७। महारोगस्य। अलक्ष्म्याः। (उपस्थात्)। उपस्थानात्। अङ्कात्। (अस्पार्षम्)। स्पृ प्रीतिबलनयोः, छान्दसो लुङ्। प्रबलं कृतवानस्मि। (एनम्)। समीपस्थम्। आत्मानम्। (शतशारदाय)। अ० १।३५।१। शतशरदृतुयुक्ताय, जीवनाय, इति शेषः-म० १ ॥
इस भाष्य को एडिट करें