Loading...
अथर्ववेद > काण्ड 3 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 7
    सूक्त - ब्रह्मा, भृग्वङ्गिराः देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम् छन्दः - उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः सूक्तम् - दीर्घायुप्राप्ति सूक्त

    ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा। ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥

    स्वर सहित पद पाठ

    ज॒रायै॑ । त्वा॒ । परि॑ । द॒दा॒मि॒ । ज॒रायै॑ । नि । धु॒वा॒मि॒ । त्वा॒ । ज॒रा । त्वा॒ । भ॒द्रा । ने॒ष्ट॒ । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.७॥


    स्वर रहित मन्त्र

    जरायै त्वा परि ददामि जरायै नि धुवामि त्वा। जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥

    स्वर रहित पद पाठ

    जरायै । त्वा । परि । ददामि । जरायै । नि । धुवामि । त्वा । जरा । त्वा । भद्रा । नेष्ट । वि । अन्ये । यन्तु । मृत्यव: । यान् । आहु: । इतरान् । शतम् ॥११.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 7

    टिप्पणीः - ७−(जरायै)। षिद्भिदादिभ्योऽङ् पा० ३।३।१०४। इति जॄ स्तुतौ-अङ्, टाप्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। स्तुतिप्राप्तये। (परि ददामि)। अ० १।३०।२। समर्पयामि। (नि)। आदरे। निश्चये। अधोभागे। (धुवामि)। धूञ् कम्पने, तुदादिः सकर्मकः। कम्पयामि। प्रेरयामि। (त्वा)। प्राणिनम्। (भद्रा)। भद्राणि। मङ्गलानि। (नेष्ट)। लेट्। नयतु प्रापयतु। अन्यद् गतम्-म० ५ ॥

    इस भाष्य को एडिट करें
    Top