Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 8
    सूक्त - वसिष्ठः देवता - विश्वा भुवनानि छन्दः - विराड्जगती सूक्तम् - रयिसंवर्धन सूक्त

    वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः। उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ ॥

    स्वर सहित पद पाठ

    वाज॑स्य । नु । प्र॒ऽस॒वे । सम् । ब॒भू॒वि॒म॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒न्त: । उ॒त । अदि॑त्सन्तम् । दा॒प॒य॒तु॒ । प्र॒ऽजा॒नन् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥२०.८॥


    स्वर रहित मन्त्र

    वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः। उतादित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरं नि यच्छ ॥

    स्वर रहित पद पाठ

    वाजस्य । नु । प्रऽसवे । सम् । बभूविम । इमा । च । विश्वा । भुवनानि । अन्त: । उत । अदित्सन्तम् । दापयतु । प्रऽजानन् । रयिम् । च । न: । सर्वऽवीरम् । नि । यच्छ ॥२०.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 8

    टिप्पणीः - ८−(वाजस्य) बलस्य। (नु) एव। (प्रसवे) ॠदोरप्। पा० ३।३।५७। इति प्र+षू प्रेरणे, यद्वा, षूङ् प्राणिगर्भविमोचने-अप्। उत्पत्तौ। (संबभूविम) भू सत्तायाम्-लिट्। वयं समर्था बभूविम। (इमा) इमानि। परिदृश्यमानानि। (विश्वा) सर्वाणि। (भुवनानि) अ० २।१।४। भू-क्युन्। लोकाः (अन्तः) वाजप्रसवस्य मध्ये वर्त्तन्ते। (उत) अपि। (अदित्सन्तम्) नञ्+दा, सन्-शतृ। सनि भीमाघुरभ०। पा० ७।४।५४। इति इसादेशः। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तकारः। दातुमनिच्छन्तम्। (दापयतु) दानाय प्रवर्तयतु। (प्रजानन्) अवगच्छन् परमेश्वरः। (रयिम्) धनम्। (नः) अस्मभ्यम्। (सर्ववीरम्) सर्ववीरोपेतम् (नि) नियमेन। नित्यम्। (यच्छतु) पाघ्राध्मास्थाम्नादाण्० पा० ७।३।७८। इति दाण् दाने यच्छादेशः। ददातु ॥

    इस भाष्य को एडिट करें
    Top