अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना॑ भव। प्र णो॑ यच्छ विशां पते धन॒दा अ॑सि न॒स्त्वम् ॥
स्वर सहित पद पाठअग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । न॒: । प्र॒त्यङ् । न॒: । सु॒ऽमना॑: । भ॒व॒ । प्र । न॒: । य॒च्छ॒ । वि॒शा॒म् । प॒ते॒ । ध॒न॒ऽदा: । अ॒सि॒ । न॒: । त्वम् ॥२०.२॥
स्वर रहित मन्त्र
अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव। प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥
स्वर रहित पद पाठअग्ने । अच्छ । वद । इह । न: । प्रत्यङ् । न: । सुऽमना: । भव । प्र । न: । यच्छ । विशाम् । पते । धनऽदा: । असि । न: । त्वम् ॥२०.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अग्ने) हे विद्वन् ! (अच्छ) सम्यक्। (वद) ब्रूहि। उपदिश। (इह) अत्र समाजे। (प्रत्यङ्) प्रत्यञ्चन् अभिमुखं गच्छन्। (नः) अस्मान्। अस्मभ्यम्। (सुमनाः) प्रीतिमनाः। (प्र यच्छ) दानं कुरु। (विशांपते) हे प्रजानां पालक। (धनदाः) धन+दा-विच्। ऐश्वर्यस्य दाता। अन्यत् सुगमम् ॥
इस भाष्य को एडिट करें