अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 9
सूक्त - वसिष्ठः
देवता - पञ्च प्रदिशः
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥
स्वर सहित पद पाठदु॒ह्राम् । मे॒ । पञ्च॑ । प्र॒ऽदिश॑: । दु॒ह्राम् । उ॒र्वी: । य॒था॒ऽब॒लम् । प्र । आ॒पे॒य॒म् । सर्वा॑: । आऽकू॑ती: । मन॑सा । हृद॑येन । च॒ ॥२०.९॥
स्वर रहित मन्त्र
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम्। प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥
स्वर रहित पद पाठदुह्राम् । मे । पञ्च । प्रऽदिश: । दुह्राम् । उर्वी: । यथाऽबलम् । प्र । आपेयम् । सर्वा: । आऽकूती: । मनसा । हृदयेन । च ॥२०.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(दुहाम् दुह्राम्) दुह प्रपूरणे-लोट्। आत्मनेपदम्। बहुलं छन्दसि। पा० १।७।८। इति झप्रत्ययस्य अतो रुडागमः। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अभ्यासे भूयांसमर्थं मन्यन्ते-निरु० १०।४२। नित्यं दुहताम्। प्रपूरयन्तु। (पञ्च) अ० १।३०।४। पचि विस्तारे-कनिन्। विस्तृताः। संख्यावाची वा। (प्रदिशः) अ० १।३०।४। दिश दाने क्विप्। प्रकृष्टा दानक्रियाः। अथवा। प्राच्याद्याश्चतस्रः। शिरोबिन्दुश्चेति पञ्च प्रदिशः। (उर्वीः) वोतो गुणवचनात्। पा० ४।१।४४। इति उरु-ङीप्। विस्तीर्णाः शक्तीः। (यथाबलम्) यथाशक्ति। (प्र, आपेयम्) आप्लृ व्याप्तौ-आशिषि लिङि। अहं प्राप्नवानि। (सर्वाः) समस्ताः। (आकूतीः)। अ० ३।२।३। संकल्पान्। (मनसा) मननेन। (हृदयेन) अ० २।२९।६। हृञ् स्वीकारे-कयन्, दुक् वा ग्रहणेन। निदिध्यासनेनेत्यर्थः ॥
इस भाष्य को एडिट करें