अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 4
सूक्त - वसिष्ठः
देवता - सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे। आ॑दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥
स्वर सहित पद पाठसोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गी॒:ऽभि: । ह॒वा॒म॒हे॒ । आ॒दि॒त्यम् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥२०.४॥
स्वर रहित मन्त्र
सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे। आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
स्वर रहित पद पाठसोमम् । राजानम् । अवसे । अग्निम् । गी:ऽभि: । हवामहे । आदित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥२०.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(सोमम्) अ० १।६।२। ऐश्वर्यहेतुम्। (राजानम्) अ० १।१०।१। सर्वशासकम्। (अवसे) रक्षणाय। (अग्निम्) विद्वांसम्। (गीर्भिः) वाणीभिः। स्तुतिभिः। (हवामहे) आह्वयामः। (आदित्यम्) अ० १।९।१। आदीप्यमानम्। (विष्णुम्) विषेः किच्च। उ० ३।३९। इति विष्लृ, व्याप्तौ-नु। विष्णुः, यज्ञः। निघ० ३।१७। पदनाम, निघ० ४।२। यद्विषितो भवति तद्विष्णुर्भवति विष्णुर्विशतेर्वा-निरु० १२।१८। व्यापकम्। (सूर्यम्) अ० १।३।५। सर्वप्रेरकम्। (ब्रह्माणम्) अ० २।६।२। सर्ववृद्धम्। वेदप्रकाशकम्। (बृहस्पतिम्)। अ० १।८।२। बृहतां महतां पालकम् ॥
इस भाष्य को एडिट करें