Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 2
    सूक्त - वसिष्ठः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शान्ति सूक्त

    यः सोमे॑ अ॒न्तर्यो गोष्व॒न्तर्य आवि॑ष्टो॒ वयः॑सु॒ यो मृ॒गेषु॑। य आ॑वि॒वेश॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥

    स्वर सहित पद पाठ

    य: । सोमे॑ । अ॒न्त: । य: । गोषु॑ । अ॒न्त: । य: । आऽवि॑ष्ट: । वय॑:ऽसु । य: । मृ॒गेषु॑ । य: । आ॒ऽवि॒वेश॑ । द्वि॒ऽपद॑: । य: । चतु॑:ऽपद: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.२॥


    स्वर रहित मन्त्र

    यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु। य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥

    स्वर रहित पद पाठ

    य: । सोमे । अन्त: । य: । गोषु । अन्त: । य: । आऽविष्ट: । वय:ऽसु । य: । मृगेषु । य: । आऽविवेश । द्विऽपद: । य: । चतु:ऽपद: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 2

    टिप्पणीः - २−(यः) अग्निः। (सोमे) चन्द्रे। अमृते। सोमलतादुग्धघृतादौ। (अन्तः) मध्ये। (गोषु) ग्राम्यपशुषु। (आविष्टः) प्रविष्टः। (वयःसु) पक्षिषु। (मृगेषु) अ० २।३६।४। आरण्यपशुषु। (आविवेश) म० १। (द्विपदः) अ० २।३४।१। पादद्वययुक्तान् मनुष्यादीन्। (चतुष्पदः) अ० २।३४।१। पादचतुष्टयोपेतान् प्राणिनः। अन्यद्गतम् ॥

    इस भाष्य को एडिट करें
    Top