अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - विराड्गर्भा त्रिष्टुप्
सूक्तम् - शान्ति सूक्त
दिवं॑ पृथि॒वीमन्व॒न्तरि॑क्षं॒ ये वि॒द्युत॑मनुसं॒चर॑न्ति। ये दि॒क्ष्व॑१॒॑न्तर्ये वाते॑ अ॒न्तस्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठदिव॑म् । पृ॒थि॒वीम् । अनु॑ । अ॒न्तरि॑क्षम् । ये । वि॒ऽद्युत॑म् । अ॒नु॒ऽसं॒चर॑न्ति ।ये । दि॒क्षु । अ॒न्त: । ये । वाते॑ । अ॒न्त: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.७॥
स्वर रहित मन्त्र
दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति। ये दिक्ष्व१न्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठदिवम् । पृथिवीम् । अनु । अन्तरिक्षम् । ये । विऽद्युतम् । अनुऽसंचरन्ति ।ये । दिक्षु । अन्त: । ये । वाते । अन्त: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(दिवम्) सूर्यलोकम्। (पृथिवीम्) भूमिम्। (अनु) अनुप्रविश्य। (ये) अग्नयः। (विद्युतम्) अ० १।१३।१। विद्योतमानां तडितम्। (अनुसंचरन्ति)। अनुप्रविश्य सम्यग् गच्छन्ति व्याप्नुवन्ति। अन्यद् गतम् ॥
इस भाष्य को एडिट करें