Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 6
    सूक्त - वसिष्ठः देवता - अग्निः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - शान्ति सूक्त

    उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। वै॑श्वान॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥

    स्वर सहित पद पाठ

    उ॒क्षऽअ॑न्नाय । व॒शाऽअन्ना॑य । सोम॑ऽपृष्ठाय । वे॒धसे॑ । वै॒श्वा॒न॒रऽज्ये॑ष्ठेभ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.६॥


    स्वर रहित मन्त्र

    उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे। वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥

    स्वर रहित पद पाठ

    उक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे । वैश्वानरऽज्येष्ठेभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 6

    टिप्पणीः - ६−(उक्षान्नाय) श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति उक्ष सेचने, वृद्धौ च-कनिन्। उक्षा महन्नाम-निघ० ३।३। उक्षण उक्षतेर्वृद्धिकर्मणः। निरु० १२।९। कॄवृजॄसिद्रुपन्यनि०। उ० ३।१०। इति अन प्राणने-न। इति अन्नम्। उक्षभ्यो महद्भ्यः प्रबलेभ्योऽन्नं यस्मात् तस्मै। प्रबलानां भोजनदात्रे। (वशान्नाय) वशिरण्योरुपसंख्यानम्। वा० पा० ३।३।५८। इति वश स्पृहायाम्-अप्, टाप्। वशाभ्यो वशीभूताभ्यः प्रजाभ्योऽन्नं यस्मात् तस्मै। निर्बलप्रजानां भोजनदात्रे। (सोमपृष्ठाय) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति पृषु सेचने-थक्। अमृतसेचकाय। (वेधसे) अ० ११।१। विधात्रे। विधानकर्त्रे (वेश्वानरज्येष्ठेभ्यः) वैश्वानर इति व्याख्यातम्-अ० १।१०।४। विश्वनरहितः परमेश्वरो ज्येष्ठो वृद्धः प्रधानो येषां तेभ्यः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top