Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 9
    सूक्त - वसिष्ठः देवता - अग्निः छन्दः - निचृदनुष्टुप् सूक्तम् - शान्ति सूक्त

    शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः। अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम् ॥

    स्वर सहित पद पाठ

    शा॒न्त: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । शा॒न्त: । पु॒रु॒ष॒ऽरेष॑ण: । अथो॒ इति॑ । य: । वि॒श्व॒ऽदा॒व्य᳡: । तम् । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒म् ॥२१.९॥


    स्वर रहित मन्त्र

    शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः। अथो यो विश्वदाव्य१स्तं क्रव्यादमशीशमम् ॥

    स्वर रहित पद पाठ

    शान्त: । अग्नि: । क्रव्यऽअत् । शान्त: । पुरुषऽरेषण: । अथो इति । य: । विश्वऽदाव्य: । तम् । क्रव्यऽअदम् । अशीशमम् ॥२१.९॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 9

    टिप्पणीः - ९−(शान्तः) सुखकरः। (अग्निः) अग्निवत्तापकरं दुःखम्। (क्रव्यात्) म० ८। मांसभक्षकः। (पुरुषरेषणः) रिष वधे-ल्युट्। पुरुषहिंसकः। (विश्वदाव्यः) म० ३। सर्वसुखनाशनसमर्थः। (अशीशमम्) शमु उपशमे-ण्यन्तात् लुङि चङि रूपम्। अहं शान्तं कृतवान्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top