Loading...
अथर्ववेद > काण्ड 3 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 4
    सूक्त - भृगुः देवता - वनस्पतिः, प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - समृद्धि प्राप्ति सूक्त

    उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ॥

    स्वर सहित पद पाठ

    उत् । उत्स॑म् । श॒तऽधा॑रम् । स॒हस्र॑ऽधारम् । अक्षि॑तम् । ए॒व । अ॒स्माक॑ । इ॒दम् । धा॒न्य᳡म् । स॒हस्र॑ऽधारम् । अक्षि॑तम् ॥२४.४॥


    स्वर रहित मन्त्र

    उदुत्सं शतधारं सहस्रधारमक्षितम्। एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥

    स्वर रहित पद पाठ

    उत् । उत्सम् । शतऽधारम् । सहस्रऽधारम् । अक्षितम् । एव । अस्माक । इदम् । धान्यम् । सहस्रऽधारम् । अक्षितम् ॥२४.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 4

    टिप्पणीः - ३, ४−(इमाः) परिदृश्यमानाः। (याः) कृष्टयः। (पञ्च) पञ्चसंख्याकाः। (प्रदिशः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। चतस्रः प्राच्याद्याः, पञ्चमो ध्रुवा दिग्, ऊर्ध्वा दिग्वा। (मानवीः) अ० ३।२१।५। मानव-ङीप्। मानव्यः मानुष्यः। (पञ्च) पञ्चभूतसंबन्धिन्यः (कृष्टयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति कृष विलेखने-क्तिच्। प्रजाः। मनुष्याः-निघ० २।३। (वृष्टे) भावे-क्त। वर्षणे सति। (शापम्) अकथितं च। पा० १।४।५१। इति अपादाने द्वितीया। शापात्। शापम् अनिष्टं मलं वा वर्जयित्वा। (नदीः इव) नद्यो यथा (इह) अत्र। (स्फातिम्) स्फायी वृद्धौ-क्तिन्। लोपो व्योर्वलि। पा० ६।१।६६। इति यलोपः। धनधान्यवृद्धिम्। (समावहान्)। सम्+आङ्+वहेर्लेटि आडागमः। सम्यग् आनयन्तु। बहेर्द्विकर्मकत्वात्, शापं स्फातिम्, इत्येतयोः कर्मत्वम्। (उत्) तृतीयमन्त्रसंबन्धात्, उत्+आङ्+वहन्तु। (उत्सम्) अ० १।१५।३। सेचनसाधनम्। निर्झरम्। कूपम्। (शतधारम्) बहुधारायुक्तम्। (सहस्रधारम्) बहु प्रकारेण धारकम् (अक्षितम्) अक्षीणम्। अनश्वरम्। (एव) एवम् (अस्माक) मलोपश्छान्दसः। अस्माकम् (इदम्) परिदृश्यमानम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top