Loading...
अथर्ववेद > काण्ड 3 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 6
    सूक्त - भृगुः देवता - वनस्पतिः, प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - समृद्धि प्राप्ति सूक्त

    ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः। तासां॒ या स्फा॒ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥

    स्वर सहित पद पाठ

    ति॒स्र: । मात्रा॑: । ग॒न्ध॒र्वाणा॑म् । चत॑स्र: । गृ॒हऽप॑त्न्या: । तासा॑म् । या । स्फा॒ति॒मत्ऽत॑मा । तया॑ । त्वा॒ । अ॒भि । मृ॒शा॒म॒सि॒ ॥२४.६॥


    स्वर रहित मन्त्र

    तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः। तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥

    स्वर रहित पद पाठ

    तिस्र: । मात्रा: । गन्धर्वाणाम् । चतस्र: । गृहऽपत्न्या: । तासाम् । या । स्फातिमत्ऽतमा । तया । त्वा । अभि । मृशामसि ॥२४.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 6

    टिप्पणीः - ६−(तिस्रः) त्रिसंख्याकाः (मात्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। इति माङ् माने-त्रन्, टाप्। परिमाणानि (गन्धर्वाणाम्) अ० २।१।२। गो+धृञ्-व। गोर्विद्यायाः पृथिव्या वा धारकाणाम्। (चतस्रः) (गृहपत्न्याः) गृहपालनशक्तेः। (तासाम्) सर्वमात्राणाम् (स्फातिमत्तमा) स्फाति+मतुप्+तमप्+टाप्। अतिशयेन समृद्धियुक्ता। (त्वा) प्रधानम् (अभि) सर्वतः (मृशामसि) मृशामः। स्पृशामः। संयोजयामः ॥

    इस भाष्य को एडिट करें
    Top