अथर्ववेद - काण्ड 3/ सूक्त 24/ मन्त्र 7
सूक्त - भृगुः
देवता - वनस्पतिः, प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - समृद्धि प्राप्ति सूक्त
उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते। तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ॥
स्वर सहित पद पाठउ॒प॒ऽऊ॒ह: । च॒ । स॒म्ऽऊ॒ह: । च॒ । क्ष॒त्तारौ॑ । ते॒ । प्र॒जा॒ऽप॒ते॒ । तौ । इ॒ह । आ । व॒ह॒ता॒म् । स्फा॒तिम् । ब॒हुम् । भू॒मान॑म् । अक्षि॑तम् ॥२४.७॥
स्वर रहित मन्त्र
उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते। ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥
स्वर रहित पद पाठउपऽऊह: । च । सम्ऽऊह: । च । क्षत्तारौ । ते । प्रजाऽपते । तौ । इह । आ । वहताम् । स्फातिम् । बहुम् । भूमानम् । अक्षितम् ॥२४.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 24; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(उपोहः) उप+ऊह वितर्के-घञ्। योगः। अलब्धलाभः। (समूहः) सम्+ऊह-घञ्। समुदायः। क्षेमः। लब्धस्य रक्षणम् (क्षत्तारौ) क्षणु वधे-क्विप्, इति क्षात्। तॄ तरणे, णिच्-अच्। तारयतीति तारः। क्षतः क्षतात् रक्षकौ। क्षत्रियौ। (ते) तव। (प्रजापते) हे सन्तानपालक गृहस्थ। (तौ) तादृशौ। उपोहसमूहौ। (आ वहताम्) आनयताम् (स्फातिम्) म० ४। समृद्धिम् (बहुम्) विपुलम् (भूमानम्) बहु-इमनिच्। बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति इमनिच् इकारलोपो बहोर्भूभावश्च। धनधान्यविषयं बहुभावम्। (अक्षितम्) क्षयरहितम् ॥
इस भाष्य को एडिट करें