अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शङ्खमणि सूक्त
हिर॑ण्याना॒मेको॑ऽसि॒ सोमा॒त्त्वमधि॑ जज्ञिषे। रथे॒ त्वम॑सि दर्श॒त इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत् ॥
स्वर सहित पद पाठहिर॑ण्यानाम् । एक॑: । अ॒सि॒ । सोमा॑त् । अधि॑ । ज॒ज्ञि॒षे॒ । रथे॑ । त्वम् । अ॒सि॒ । द॒र्श॒त: । इ॒षु॒ऽधौ । रो॒च॒न: । त्वम् । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥१०.६॥
स्वर रहित मन्त्र
हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे। रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत् ॥
स्वर रहित पद पाठहिरण्यानाम् । एक: । असि । सोमात् । अधि । जज्ञिषे । रथे । त्वम् । असि । दर्शत: । इषुऽधौ । रोचन: । त्वम् । प्र । न: । आयूंषि । तारिषत् ॥१०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(हिरण्यानाम्) अन्धकारहरणशीलानां सूर्यादितेजसां मध्ये (एकः) अद्वितीयः (असि) (सोमात्) सोमः सूर्यः प्रसवनात्-निरु० १४।१२। सूर्यलोकात् (त्वम्) (अधि) उपरि देशे काले च (जज्ञिषे) प्रादुर्बभूविथ (रथे) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडने क्थन्। रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद् विपरीतस्य रममाणोऽस्मिंस्तिष्ठतीति वा रपतेर्वा रसतेर्वा-निरु० ९।११। रमणीये याने। रथारूढे, इत्यर्थः (त्वम् असि) (दर्शतः) भृमृदृशि०। उ० ३।११०। इति दृशिर् प्रेक्षणे-अतच्। दृश्यमानः (इषुधौ) अ० ३।२३।३। बाणाधारे। तूणीरे (रोचनः) रोचमानः। दीप्यमानः (नः) अस्माकम् (आयूंषि) जीवनानि (प्रतारिषत्) अ० २।४।६। लेटि रूपम्। प्रवर्धयेत्, भवान् इति शेषः ॥
इस भाष्य को एडिट करें