अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑। श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठश॒ङ्खेन॑ । अमी॑वाम् । अम॑तिम् । श॒ङ्खेन॑ । उ॒त । स॒दान्वा॑: । श॒ङ्ख: । न॒: । वि॒श्वऽभे॑षज: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.३॥
स्वर रहित मन्त्र
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठशङ्खेन । अमीवाम् । अमतिम् । शङ्खेन । उत । सदान्वा: । शङ्ख: । न: । विश्वऽभेषज: । कृशन: । पातु । अंहस: ॥१०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(शङ्खेन) म० १ तथा २ (अमीवाम्) इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे-वन्। ईडागमः। टाप्। पीडाम्। रोगम्। (अमतिम्) कुमतिम्। अज्ञानम् (उत) अपि च (सदान्वाः) अ० २।१४।१। सदा नोनूयमानाः शब्दायमानाः। यद्वा। सदानवाः, दानवैः सह वर्तमाना दरिद्रतादिविपत्तीः, “विषहामहे”-इत्यनुषज्यते−मा० २ (शङ्खः) म० १। (नः) अस्मान् (विश्वभेषजः) अ० २।४।३। सर्वभयजेता। सर्वौषधः (कृशनः पातु अंहसः) व्याख्यातं म० १ ॥
इस भाष्य को एडिट करें