अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 7
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - पञ्चपदा परानुष्टुब्विराट्शक्वरी
सूक्तम् - शङ्खमणि सूक्त
दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्वन्तः। तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठदे॒वाना॑म् । अस्थि॑ । कृश॑नम् । ब॒भू॒व॒ । तत् । आ॒त्म॒न्ऽवत् । च॒र॒ति॒ । अ॒प्ऽसु । अ॒न्त: । तत् । ते॒ । ब॒ध्ना॒मि॒ । आयु॑षे । वर्च॑से । बला॑य । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । का॒र्श॒न: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥१०.७॥
स्वर रहित मन्त्र
देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः। तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठदेवानाम् । अस्थि । कृशनम् । बभूव । तत् । आत्मन्ऽवत् । चरति । अप्ऽसु । अन्त: । तत् । ते । बध्नामि । आयुषे । वर्चसे । बलाय । दीर्घायुऽत्वाय । शतऽशारदाय । कार्शन: । त्वा । अभि । रक्षतु ॥१०.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(देवानाम्) दिव्यगुणानां प्रकाशमानानां पदार्थानां च (अस्थि) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपे, यद्वा। अस गतिदीप्त्यादानविद्यमानतासु-क्थिन्। प्रदीपकं प्रकाशकम् (कृशनम्) म० १। सूक्ष्मकारकं ब्रह्म (तत्) विस्तृतं ब्रह्म (आत्मन्वत्) आत्मन्-मतुप्। मादुपधायाश्च०। पा० ८।२।९। इति वत्वम्। अनो नुट्। पा० ८।२।१६। इति नुट्। सात्मकं स्थावरजङ्गमात्मकं जगत् (चरति) गच्छति व्याप्नोति (अप्सु) अन्तरिक्षे-निघ० १।३। (तत् ते....... शतशारदाय) व्याख्यातम्-अ० १।३५।१। (तत्) प्रसिद्धम् (ते) तव (बध्नामि) धारयामि (आयुषे) आयाय। लाभाय (वर्चसे) तेजसे। यशसे (बलाय) पराक्रमाय (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) शतशरदृतुयुक्ताय। शतसंवत्सरयुक्ताय (कार्शनः) कृशनः-मा० १। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तस्येदम्। पा० ४।३।१२०। इति कृशन-अण्। कृशनानि हिरण्यानि सुवर्णादिधनानि तेजांसि च यस्य स कार्शनः (त्वा) प्राणिनम् (अभि) सर्वतः (रक्षतु) पालयतु ॥
इस भाष्य को एडिट करें