Loading...
अथर्ववेद > काण्ड 4 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 1
    सूक्त - अथर्वा देवता - शङ्खमणिः, कृशनः छन्दः - अनुष्टुप् सूक्तम् - शङ्खमणि सूक्त

    वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद्वि॒द्युतो॒ ज्योति॑ष॒स्परि॑। स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    वाता॑त् । जा॒त: । अ॒न्तरि॑क्षात् । वि॒ऽद्युत॑: । ज्योति॑ष: । परि॑ । स: । न॒: । हि॒र॒ण्य॒ऽजा: । श॒ङ्ख: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.१॥


    स्वर रहित मन्त्र

    वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि। स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥

    स्वर रहित पद पाठ

    वातात् । जात: । अन्तरिक्षात् । विऽद्युत: । ज्योतिष: । परि । स: । न: । हिरण्यऽजा: । शङ्ख: । कृशन: । पातु । अंहस: ॥१०.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 1

    टिप्पणीः - १−(वातात्) अ० १।११।६। वायुसकाशात् (जातः) प्रादुर्भूतः (अन्तरिक्षात्) अ० १।३०।३। सर्वमध्ये दृश्यमानात्। आकाशात् (विद्युतः) भ्राजभासधुर्विद्युतोर्जि०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ-क्विप्। विद्योतमानायाः। तडितः सकाशात् (ज्योतिषः) अ० १।९।१। दीप्यमानात् सूर्यात् (परि) अधि। उपरि भागे जातः। पञ्चम्याः परावध्यर्थे। पा० ८।३।५१। इति विसर्जनीयस्य सत्वम् (सः) षो अन्तकर्मणि-ड। दुःखनाशकः। विष्णुः। ईश्वरः (नः) अस्मान् (हिरण्यजाः) हिरण्यम्। अ० १।९।२। जनसनखन०। पा० ३।२।६७। इति जन जनने, वा जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्त्वम्। हिरण्यानां तेजसां सूर्यादीनां सुवर्णादिधनानां च जनयिता (शङ्खः) शमेः खः। उ० १।१०२। इति शम आलोचने=विवेचने। यद्वा शमो दर्शने। यद्वा। शमु उपशमे, शान्तीकरणे-ख प्रत्ययः। सर्वेषां विवेचको विचारकर्ता दर्शको शान्तिदायको वा परमेश्वरः (कृशनः) कृपृवृजि०। उ० २।८१। इति कृश तनूकरणे-क्यु। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तनूकर्ता। सूक्ष्मरचयिता (पातु) रक्षतु (अंहसः) अमेर्हुक् च। उ० ४।११३। इति अम रोगे गतौ च-असुन् हुक् च। पापात् ॥

    इस भाष्य को एडिट करें
    Top