Loading...
अथर्ववेद > काण्ड 4 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 2
    सूक्त - मृगारः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॒ प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु। यौ गच्छ॑थो नृ॒चक्ष॑सौ ब॒भ्रुणा॑ सु॒तं तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    सऽचे॑तसौ । द्रुह्व॑ण: । यौ । नु॒देथे॒ इति॑ । प्र । स॒त्यऽवा॑नम् । अव॑थ: । भरे॑षु । यौ । गच्छ॑थ: । नृ॒ऽचक्ष॑सौ । ब॒भ्रुणा॑ । सु॒तम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.२॥


    स्वर रहित मन्त्र

    सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु। यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    सऽचेतसौ । द्रुह्वण: । यौ । नुदेथे इति । प्र । सत्यऽवानम् । अवथ: । भरेषु । यौ । गच्छथ: । नृऽचक्षसौ । बभ्रुणा । सुतम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 2

    टिप्पणीः - २−पूर्वार्द्धो व्याख्यातः-म० १ (यौ) मित्रावरुणौ (गच्छथः) प्राप्नुथः (नृचक्षसौ) अ० १।७।५। हे नृणां चष्टारौ द्रष्टारौ सर्वस्यापि मानुषव्यापारस्य साक्षिणौ (बभ्रुणा) कुर्भ्रश्च। उ० १।२२। इति डुभृञ् धारणपोषणयोः-कु, द्वित्वं च। भरणेन पोषणेन (सुतम्) षु प्रसवैश्वर्ययोः-क्तः। उत्पन्नं जगत् ऐश्वर्यवन्तम्। पराक्रमिणम्। पुत्रवत्सेवकं वा। अन्यत् पूर्ववत् ॥—

    इस भाष्य को एडिट करें
    Top