अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 6
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । मेध॑ऽअतिथिम् । अव॑थ: । यौ । त्रि॒ऽशोक॑म् । मित्रा॑वरुणै । उ॒शना॑म् । का॒व्यम् । यौ । यौ । गोत॑मम् । अव॑थ: । प्र । उ॒त । मुद्ग॑लम् । तौ न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.६॥
स्वर रहित मन्त्र
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ। यौ गोतममवथः प्रोत मुद्गलं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यौ) युवाम् (मेधातिथिम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति मेधृ वधहिंसासङ्गमेषु-अङ्। टाप्। धीर्धारणावती मेधा-इत्यमरः। ५।२। ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गि०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अततीति अतिथिः। मेधां धारणावतीं बुद्धिम् अतति निरन्तरं प्राप्नोति यः, तम्। (अवथः) (त्रिशोकम्) त्रिषु कायिकवाचिकमानसिकदोषेषु शोकः खेदो यस्य तम् (मित्रावरुणौ) अहोरात्रौ प्राणापानौ वा (उशनाम्) रञ्जतेः क्युन्। उ० २।७९। इति वश कान्तौ-क्युन्। टाप्। सम्प्रसारणं च। कमनीयां नीतिम् (काव्यम्) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ५।१।१२४। इति कवि-ष्यञ्। कवीनां मेधाविनां कर्म (गोतमम्) गो-तमप्। गौः स्तोता-निरु० ३।१६। अतिशयेन स्तोतारम्। यद्वा, गौः, वाङ्नाम-निघ० १।११। तमु काङ्क्षायाम् पचाद्यच्। गां वाचं विद्यां ताम्यति काङ्क्षति यस्तं विद्याकामम् (प्र उत) (मुद्गलम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति मुद हर्षे-गक्। ला दानादनयोः-क। मुद्गलो मुद्गवान् मुद्गिलो वा मदनङ्गिलतीति वा मदङ्गिलो वा मुदङ्गिलो वा निरु० ९।२४। मोदस्य हर्षस्य दातारम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें