Loading...
अथर्ववेद > काण्ड 4 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 5
    सूक्त - मृगारः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    यौ । भ॒रत्ऽवा॑जम् । अव॑थ: । यौ । गवि॑ष्ठिरम् । वि॒श्वामि॑त्रम् । व॒रु॒ण॒ । मि॒त्र॒ । कुत्स॑म् । यौ । क॒क्षीव॑न्तम् । अव॑थ: । प्र । उ॒त । कण्व॑म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.५॥


    स्वर रहित मन्त्र

    यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्। यौ कक्षीवन्तमवथः प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    यौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 5

    टिप्पणीः - ५−(यौ) मित्रावरुणौ युवाम् (भरद्वाजम्) अ० २।१२।२। अन्नस्य बलस्य विज्ञानस्य वा भर्तारं धारकं पुरुषम् (अवथः) रक्षथः (गविष्ठिरम्) तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। गवियुधिभ्यां स्थिरः। पा० ८।३।५५। इति षत्वम्। गवि वाचि वेदात्मिकायां स्थिरं दृढम् (विश्वामित्रम्) मित्रे चर्षौ। पा० ६।३।१३०। इति दीर्घः। विश्वामित्रः सर्वमित्रः, सर्वं संसृतम्-निरु० २।२४। सर्वस्यैव मित्रं सर्वमेव वा तस्य मित्रम्। तं सर्वहितम् (वरुण मित्र) हे मित्रावरुणौ (कुत्सम्) स्तुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति-कुस संश्लेषणे-स। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। सद्भिः संगतिशीलम्। यद्वा कृती छेदने स प्रत्ययः। ऋकारस्य उत्वम्। दोषाणां कर्तकं छेत्तारम्। यद्वा कुत्स अवक्षेपणे चुरा०-घञ्। कुत्सयति दोषान् यः तम्। कुत्सो वज्रः-निघ० २।२०। कुत्स इत्येतत्कृन्ततेः। ऋषिः कुत्सो भवति, कर्ता स्तोमानामित्यौपमन्यवः। अत्राप्यस्य वधकर्मैव भवति तत्सख इन्द्रः शष्णं जघानेति-निरु० ३।११। (कक्षीवन्तम्) अशेर्नित्। उ० ३।१५६। इति कश गतिशासनयोः-क्सि। ततो मतुप्। मस्य वः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। कक्षिर्गतिः शासनं वा विद्यते यस्मिन् स कक्षिवान् तं गतिशीलं शासनशीलं वा कक्षावान् कक्ष्यावान्.... अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्-निरु० ६।१०। (प्र) प्रकर्षेण (उत) अपि च (कण्वम्) अ० २।२५।३। अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे निमीलने वा-क्वन्। कणति स्तौति यद्वा निमीलयति दोषान् स्वज्ञानेन, तं मेधाविनम्-निघ० ३।१५। अन्यत्पूर्ववत् ॥—

    इस भाष्य को एडिट करें
    Top