अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑। हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥
स्वर सहित पद पाठउत् । इ॒त: । त्रय॑: । अ॒क्र॒म॒न् । व्या॒घ्र: । पुरु॑ष: । वृक॑: । हिरु॑क् । हि । यन्ति॑ । सिन्ध॑व: । हिरु॑क् । दे॒व: । वन॒स्पति॑: । हिरु॑क् । न॒म॒न्तु॒ । शत्र॑व: ॥३.१॥
स्वर रहित मन्त्र
उदितस्त्रयो अक्रमन्व्याघ्रः पुरुषो वृकः। हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥
स्वर रहित पद पाठउत् । इत: । त्रय: । अक्रमन् । व्याघ्र: । पुरुष: । वृक: । हिरुक् । हि । यन्ति । सिन्धव: । हिरुक् । देव: । वनस्पति: । हिरुक् । नमन्तु । शत्रव: ॥३.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(उत्) उपसर्गाः क्रियायोगे (इतः) अस्मात् स्थानात् (त्रयः) त्रिसंख्यकाः (उदक्रमन्) क्रमु पादविक्षेपे-लङ्। क्रमः परस्मैपदेषु। पा० ७।३।७६। इति दीर्घाभावश्छान्दसः। उदक्रामन्। उत्क्रान्ता उत्थिता अभवन् (व्याघ्रः) आतश्चोपसर्गे। पा० ३।१।१६। इति वि+आङ्+घ्रा गन्धोपादाने क। व्याजिघ्रति विशिष्टाघ्राणमात्रेण प्राणिनो हन्तीति। हिंसकजन्तुविशेषः (पुरुषः) अ० १।१६।४। पुर-कुषन्। पुरति अग्रेऽगच्छतीति। चोरः। परमेणोत तस्करः। इति उत्तरत्र म० २, तस्यैवानुकीर्तनात् (वृकः) सृवृभूशुषिमुषिभ्यः कक्। इति वृञ् वरणे-कक्। यद्वा। वृक आदाने-क। कुक्कुरप्रमाणहरिणादिघ्नजन्तुविशेषः। हुण्डार इति भाषा (हिरुक्) हि गतौ-रुकक्। वर्जने। त्यागे। अधमे। विना। निर्णीतान्तर्हितनाम-निघ० ३।२५। अन्तर्हितम् (हि) प्रसिद्धौ (यन्ति) गच्छन्ति (सिन्धवः) स्यन्देः संम्प्रसारणं धश्च। उ० १।११। इति स्यन्दू प्रस्रवणे-उ। दस्य धः। सिन्धुः स्यन्दनात्-निरु० ९।२६। स्यन्दनशीला नद्यः (देवः) दिव्यगुणयुक्तः (वनस्पतिः) वनानां सेवकानां पाता रक्षकः। वृक्षः (नमन्तु) प्रह्वीभवन्तु (शत्रवः) शातनशीलाः। विरोधिनः ॥
इस भाष्य को एडिट करें