अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 5
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति। प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ॥
स्वर सहित पद पाठय: । अ॒द्य । स्ते॒न: । आ॒ऽअय॑ति । स: । सम्ऽपि॑ष्ट: । अप॑ । अ॒य॒ति॒ । प॒थाम् । अ॒प॒ऽध्वं॒सेन॑ । ए॒तु॒ । इन्द्र॑: । वज्रे॑ण । ह॒न्तु॒ । तम् ॥३.५॥
स्वर रहित मन्त्र
यो अद्य स्तेन आयति स संपिष्टो अपायति। पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥
स्वर रहित पद पाठय: । अद्य । स्तेन: । आऽअयति । स: । सम्ऽपिष्ट: । अप । अयति । पथाम् । अपऽध्वंसेन । एतु । इन्द्र: । वज्रेण । हन्तु । तम् ॥३.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यः) (अद्य) अस्मिन् दिने (स्तेनः) म० ४। चोरः (आ-अयति) अय गतौ। आगच्छतु (सः) चोरः (संपिष्टः) पिष्लृ संचूर्णने-क्त। सर्वथा चूर्णीकृतः (अप-अयति) निर्गच्छतु (पथाम्) मार्गाणाम् (अपध्वंसेन) ध्वन्सु गतौ, अधः पतने-घञ्। विनाशेन (एतु) गच्छतु (इन्द्रः) ऐश्वर्यवान् पुरुषः (वज्रेण) अस्त्रभेदेन (हन्तु) मारयतु (तम्) चोरम् ॥
इस भाष्य को एडिट करें