अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑। नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥
स्वर सहित पद पाठमू॒र्णा: । मृ॒गस्य॑ । दन्ता॑: । अपि॑ऽशीर्णा: । ऊं॒ इति॑ । पृ॒ष्टय॑: । नि॒ऽम्रुक् । ते॒ । गो॒धा । भ॒व॒तु॒ । नी॒चा । अ॒य॒त् । श॒श॒यु: । मृ॒ग: ॥३.६॥
स्वर रहित मन्त्र
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः। निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥
स्वर रहित पद पाठमूर्णा: । मृगस्य । दन्ता: । अपिऽशीर्णा: । ऊं इति । पृष्टय: । निऽम्रुक् । ते । गोधा । भवतु । नीचा । अयत् । शशयु: । मृग: ॥३.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(मूर्णाः) मुर्व बन्धने-राल्लोपः। पा० ६।४।२१। इति वकारलोपः। रदाभ्यां निष्ठातो नः पूर्वस्य च दः। पा० ८।२।४२। इति तस्य नः। बद्धाः। कुण्ठिताः (मृगस्य) अ० २।३६।४। अन्वेषणशीलस्य। पशोः। गोधायाः (दन्ताः) हसिमृग्रिण्वामिदमि०। उ० ३।८६। इति दमु उपशमे-तन्। रदनाः। दशनाः (अपि-शीर्णाः) शॄ हिंसने-क्त। हिंसिताः। विदीर्णाः। त्रोटिताः (उ) अपि (पृष्टयः) पृषु सेके-क्तिच्। पर्शवः। पार्श्वास्थीनि (निम्रुक्) नि+म्रुचु गतौ-क्विप्। नीचगतिः (ते) तव। चोरस्य (गोधा) हलश्च। पा० ३।३।१२१। इति गुध परिवेष्टने-घञ्। टाप्। धनुर्गुणाघातवारणाय प्रकोष्ठबद्धा चर्मपट्टिका। जन्तुविशेषः (भवतु) (नीचा) सुपां सुलुक्०। पा० ७।१।३९। इति नीचैः डा। नीचैः (अयत्) अय गतौ लेट्। अडागमः। अयताम् गच्छतु (शशयुः) भृमृशीङ्तॄ० उ० १।७। इति शीङ् स्वप्ने-उ। बाहुलकाद् द्विर्वचनम्। शयुः शयानः। निरुद्यमः (मृगः) पशुः ॥
इस भाष्य को एडिट करें