Loading...
अथर्ववेद > काण्ड 4 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 2
    सूक्त - अथर्वा देवता - रुद्रः, व्याघ्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः। परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥

    स्वर सहित पद पाठ

    परे॑ण । ए॒तु॒ । प॒था । वृक॑: । प॒र॒मेण॑ । उ॒त । तस्क॑र: । परे॑ण । द॒त्वती॑ । रज्जु॑: । परे॑ण । अ॒घ॒ऽयु: । अ॒र्ष॒तु॒ ॥३.२॥


    स्वर रहित मन्त्र

    परेणैतु पथा वृकः परमेणोत तस्करः। परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥

    स्वर रहित पद पाठ

    परेण । एतु । पथा । वृक: । परमेण । उत । तस्कर: । परेण । दत्वती । रज्जु: । परेण । अघऽयु: । अर्षतु ॥३.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 2

    टिप्पणीः - २−(परेण) अन्येन दूरेण (एतु) गच्छतु (पथा) मार्गेण (वृकः) म० १। अरण्यश्वा (परमेण) दूरतरेण (उत) अपि (तस्करः) त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु विस्तारोपकृतिशब्दोपतापेषु-अदि। तनति उपतापयतीति तद्, उपतापः पीडा। दिवाविभानिशा०। पा० ३।२।२१। इति तत् इत्युपपदे कृञ् करणे-ट प्रत्ययः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। पा० ६।१।१५७। इति सुट्तलोपौ। तत् उपतापं करोतीति तस्करः। चोरः। (दत्वती) दन्त-मतुप् ङीप्। पद्दन्नोमास्०। पा० ६।१।६३। इति दत्। दन्तवती (दत्वती रज्जुः) दन्तयुक्तो रज्वाकृतिः सर्पः (अघायुः) अ० १।२०।२। अनिष्टचारी। पापात्मा (अर्षतु) ऋषी गतौ। गच्छतु ॥

    इस भाष्य को एडिट करें
    Top