अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 7
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - ककुम्मतीगर्भोपरिष्टाद्बृहती
सूक्तम् - शत्रुनाशन सूक्त
यत्सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑। इ॑न्द्र॒जाः सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम् ॥
स्वर सहित पद पाठयत् । स॒म्ऽयम॑: । न । वि । य॒म॒: । वि । य॒म॒: । यत् । न । स॒म्ऽयम॑: । इ॒न्द्र॒ऽजा: । सो॒म॒ऽजा: । आ॒थ॒र्व॒णम् । अ॒सि॒ । व्या॒घ्र॒ऽजम्भ॑नम् ॥३.७॥
स्वर रहित मन्त्र
यत्संयमो न वि यमो वि यमो यन्न संयमः। इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥
स्वर रहित पद पाठयत् । सम्ऽयम: । न । वि । यम: । वि । यम: । यत् । न । सम्ऽयम: । इन्द्रऽजा: । सोमऽजा: । आथर्वणम् । असि । व्याघ्रऽजम्भनम् ॥३.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यत्) यस्मात् कारणात् (संयमः) सम्यङ् नियमः सुनियमः प्रबन्धः (वि यमः) विरुद्धनियमः (इन्द्रजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति इन्द्र+जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्वम्। इन्द्रात् परमेश्वराज्जातः प्रादुर्भूतः (सोमजाः) पूर्ववद् विट् प्रत्यये सिद्धिः। षुञ् अभिषवे, यद्वा षू प्रेरणे-मन्। सोमेभ्यो मन्थनशीलेभ्यः सर्वप्रेरकेभ्यो वा पुरुषेभ्यः प्रकाशितः (आथर्वणम्) अथर्वा, इति व्याख्यातः-अ० ४।१।७। तत आगतः। पा० ४।३।७४। इति अथर्वन्-अण्। अन्। पा० ६।४।१६७। इति अणि प्रकृतिभावः। अथर्वणो निश्चलात् मङ्गलप्रदाद् वा परमेश्वराद् आगतं प्राप्तम् (असि) हे मनुष्यत्वं भवसि (व्याघ्रजम्भनम्) व्याघ्रस्वभावानां हिंसकानां शत्रूणां नाशसामर्थ्यम् ॥
इस भाष्य को एडिट करें