अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 5
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑। अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
स्वर सहित पद पाठअ॒हम् । रु॒द्राय॑ । धनु॑: । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ । अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥३०.५॥
स्वर रहित मन्त्र
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥
स्वर रहित पद पाठअहम् । रुद्राय । धनु: । आ । तनोमि । ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊं इति । अहम् । जनाय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ॥३०.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अहम्) परमेश्वरः (रुद्राय) म० १। ज्ञानदात्रे। दुःखनाशकाय। तस्य हितायेत्यर्थः (धनुः) अ० ४।६।६। चापम् (आ तनोमि) विस्तारयामि। राज्यं करोमि (ब्रह्मद्विषे) द्विष अप्रीतौ-क्विप्। ब्राह्मणानां द्वेष्ट्रे (शरवे) शॄस्वृस्निहि०। उ० १।१०। इति शॄ हिंसायाम्-उ। कर्मणि चतुर्थी। हिंसकम्। दुष्टम् (हन्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति हन हिंसागत्योः-तवै। हन्तुं हिंसितुम् (उ) अवधारणे (जनाय) भक्तजनार्थम् (समदम्) मदोऽनुपसर्गे। पा० ३।३।६८। इति मदी हर्षे-अप्। मदेन हर्षेण सहितम् (कृणोमि) करोमि (द्यावापृथिवी) सूर्यभूलोकौ (आविवेश) प्रविष्टवान् ॥
इस भाष्य को एडिट करें