Loading...
अथर्ववेद > काण्ड 4 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 7
    सूक्त - अथर्वा देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रदेवी सुक्त

    अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे। ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥

    स्वर सहित पद पाठ

    अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनि॑: । अ॒प्ऽसु । अ॒न्त: । स॒मु॒द्रे । तत॑: । वि । ति॒ष्ठे॒ । भुव॑नानि । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥ ३०.७॥


    स्वर रहित मन्त्र

    अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे। ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥

    स्वर रहित पद पाठ

    अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनि: । अप्ऽसु । अन्त: । समुद्रे । तत: । वि । तिष्ठे । भुवनानि । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥ ३०.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 7

    टिप्पणीः - ७−(अहम्) परमेश्वरः (सुवे) षूङ् प्राणिगर्भविमोचने। जनयामि (पितरम्) पालकं गुणं (अस्य) दृश्यमानस्य। जगतः (मूर्धन्) अ० ३।६।६। मुर्व बन्धने-कनिन्। मूर्धनि। बन्धने। नियमे निमित्ते (मम) (योनिः) गृहम्-निघ० ३।४। (अप्सु) व्यापनशीलासु प्रकृतिरचनासु (अन्तः) मध्ये (समुद्रे) अ० १।३।८। समुद्रवन्त्यस्माद् भूतानि। अन्तरिक्षो-निघ० १।३। (ततः) तस्मात्कारणात् (वितिष्ठे) समवप्रविभ्यः स्थः। पा० १।३।२२। इति आत्मनेपदम्। विविधं व्याप्य तिष्ठामि (भुवनानि) भूतजातानि (विश्वा) विश्वानि सर्वाणि (अमूम्) विप्रकृष्टाम् (द्याम्) प्रकाशमानं सूर्यम् (वर्ष्मणा) अ० ३।४।२। वृषु प्रजननैश्ययोः-मनिन्। स्वैश्वर्येण (उप स्पृशामि) व्याप्नोमि-इत्यर्थः ॥

    इस भाष्य को एडिट करें
    Top