Loading...
अथर्ववेद > काण्ड 4 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 6
    सूक्त - अथर्वा देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् छन्दः - जगती सूक्तम् - राष्ट्रदेवी सुक्त

    अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्। अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑ यज॑मानाय सुन्व॒ते ॥

    स्वर सहित पद पाठ

    अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णा । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्या᳡ । यज॑मानाय । सु॒न्व॒ते ॥३०.६॥


    स्वर रहित मन्त्र

    अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्। अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥

    स्वर रहित पद पाठ

    अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणा । हविष्मते । सुप्रऽअव्या । यजमानाय । सुन्वते ॥३०.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 6

    टिप्पणीः - ६−(अहम्) परमेश्वरः (सोमम्) अ० १।६।२। ऐश्वर्यम् (आहनसम्) आङ्+हन हिंसागत्योः-असुन्। सम्यक् प्रापणीयम् (बिभर्भि) धारयामि (त्वष्टारम्) अ० २।५।६। रसानां तनूकर्तारं सूर्यम् (उत) अपि च (पूषणम्) अ० १।९।१। पूषा पृथिवीनाम। निघ० १।१। पोषयित्रीं पृथिवीम् (भगम्) अ० १।१४।१। भगो भजतेः-निरु० १।७। सेवनीयं चन्द्रम् (दधामि) ददामि प्रयच्छामि (द्वविणा) द्रविणानि। धनानि (हविष्मते) हविः-अ० १।४।३। दानयुक्ताय। भक्तिविशिष्टाय (सुप्राव्या) ऋहलोर्ण्यत्। पा० ३।३।१२४। इति सु+प्र+अव रक्षणो-ण्यत्। संज्ञापूर्वको विधिरनित्यः-इति वृद्धेरभावः। सुष्ठु प्रकर्षेण अवनीयानि। रक्षणीयानि। (यजमानाय) देवपूजकाय (सुन्वते) षुञ् अभिषवे शतृ। विद्यारसस्याभिषवं मथनं कुर्वते ॥

    इस भाष्य को एडिट करें
    Top